१४

इन्द्राय स्वाहेन्द्रपुरुषेभ्यः स्वाहेति पुरस्ताद्यमाय स्वाहा यमपुरुषेभ्यः स्वाहेति दक्षिणतो वरुणाय स्वाहा वरुणपुरुषेभ्यः स्वाहेति पश्चात्सोमाय स्वाहा सोमपुरुषेभ्यः स्वाहेत्युत्तरतोऽग्नये स्वाहेति पुरस्ताद्यमाय स्वाहेति दक्षिणतो वरुणाय स्वाहेति पश्चात्सोमाय स्वाहेत्युत्तरतः सप्तर्षिभ्यः स्वाहा सर्वभूतेभ्यः स्वाहेत्युत्तरपूर्वे देशेऽथ दक्षिणतः प्राचीनावीती जुहोति पितृभ्यः स्वधा नमः पितामहेभ्यः स्वधा नमः प्रपितामहेभ्यः स्वधा नमो मातामहेभ्यः स्वधा नमो मातुः पितामहेभ्यः स्वधा नमो मातुः प्रपितामहेभ्यः स्वधा नम इति त्रीननुगेभ्यः स्वधा नम इति मध्येऽप उपस्पृश्योत्तरतो यज्ञोपवीती जुहोत्यृग्वेदाय स्वाहा यजुर्वेदाय स्वाहा सामवेदाय स्वाहाथर्ववेदाय स्वाहाथर्वाङ्गिरोभ्यः स्वाहेतिहासपुराणेभ्यः स्वाहा सर्वदेवजनेभ्यः स्वाहा सर्वभूतेभ्यः स्वाहेत्यथोर्ध्वं बलिं निनयति ये भूताः प्रचरन्ति दिवा बलिमिच्छन्तो वितुदस्य प्रेष्याः । तेभ्यो बलिं पुष्टिकामो हरामि मयि पुष्टिं पुष्टिपतिर्दधातु स्वाहेति नक्तं बलिमिच्छन्त इति रात्र्यामथार्केणैकपर्णेन बलिम् निनयति येषां न माता पचते येषां रात्र्यां समागमम् । तेषामहं तु भूतानां पिण्डं दास्याम्ययाचितः । भये मेऽभयमस्तु दुर्भिक्षे च सुभिक्षणम् । जननमारके मृत्युजातिप्राये च काल्यतां स्वाहेति पात्रसङ्क्षालनं निनयति निशि श्रितेभ्यः स्वाहा रुद्राय स्वाहेति वा वैश्वदेवं हुत्वातिथिमाकाङ्क्षेतागोदोहनकालमग्रं वोद्धृत्य निदध्याद्यज्ञो वा एष पञ्चमो यदतिथिः १४