सर्वेषु पाकयज्ञेषु स्त्रियाश्चानुपेतस्य बलिमन्त्रो न विद्यतेऽपि वा स्त्री जुहुयान्मन्त्रवर्जं न चानुपेत उपेतो व्याख्यातो गृहपेधिनो यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्तास्तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं चोत्तमस्यैकरात्रमुपवासः स्त्री वैश्वदेवं निर्वपेद्युक्तो वा स्वयं निर्वपेद्देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां विश्वेभ्यो देवेभ्यो जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थं पत्नी प्रयता फलीकरोति पत्न्या उपदिशति प्रक्षालितपाणिपादाधिश्रयीत शृतं वेदयीत भूतमिति भर्तुः प्रतिवेदयते तत्सुभृतं विराडन्नं तन्मा क्षायीति वचनमभिघार्योद्वास्य प्रतिष्ठितमभिघार्योपरिष्टादद्भिर्मार्जयित्वाधस्ताद्गोमयेन नात्रेध्माबर्हिर्भवति नाघारौ नाज्यभागौ व्याहृतीभिश्चतस्रः समिधोऽभ्याधाय परिषिच्य हस्तेन जुहोत्यग्नये स्वाहा सोमाय स्वाहा प्रजापतये स्वाहा धन्वन्तरये स्वाहा ध्रुवाय स्वाहा ध्रुवाय भौमाय स्वाहा ध्रुवक्षितये स्वाहाच्युतक्षितये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवताभ्यः स्वाहाग्नये स्वाहाग्नयेऽमवते स्वाहाग्नयेऽन्नादाय स्वाहाग्नये स्विष्टकृते स्वाहेति व्याहृतीभिर्जुहोत्येकैकशः समस्ताभिश्च मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितो वधिर्हविष्मन्तो नमसा विधेम ते स्वाहा । कामाय स्वाहा मन्यवे स्वाहेत्यथ परिषिञ्चति मन्त्रांश्च सन्नमति १२