अघमर्षणेन त्रीन्प्राणायामान्धारयन्त्यृतं च सत्यं चाभीद्धात्तपसोऽध्यजायत । ततो रात्रिरजायत ततः समुद्रो अर्णवः समुद्रादर्णवादधि संवत्सरो अजायत अहोरात्राणि विदधद्विश्वस्य मिषतो वशी सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् दिवं च पृथिवीं चान्तरिक्षमथो सुवरिति दर्भानन्योऽन्यस्मै प्रदायाथासनानि कल्पयन्ते ब्रह्मणे प्रजापतयेऽग्नये बृहस्पतये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वरुणाय राज्ञे वैश्रवणाय राज्ञे रुद्राय स्कन्दाय विष्णवेऽश्विभ्यां धन्वन्तरये वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति गणानाम् ९