अथात उपाकरणविसर्जने व्याख्यास्यामः श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वोपाकर्माग्नेरुपसमाधानाद्याज्यभागान्ते काण्डर्षीन्जुहोति काण्डनामानि वा प्रजापतये काण्डर्षये स्वाहेति प्राजापत्यानां प्रजापतये स्वाहेति वा सोमाय काण्डर्षये स्वाहेति सौम्यानां सोमाय स्वाहेति वाग्नये काण्डर्षये स्वाहेत्याग्नेयानामग्नये स्वाहेति वा विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहेति वैश्वदेवानां विश्वेभ्यो देवेभ्यः स्वाहेति वा स्वयम्भुवे स्वाहेति सर्वेषां सदसस्पतिर्द्वितीयस्त्रीनादितोऽनुवाकानधीयन्ते काण्डादीन्वा सर्वांस्त्र्यहमेकाहं वाक्षाम्येताथाधीयीत मासं प्रदोषे नाधीयीत तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गोऽपि वा माघ्यां सहान्तेवासिभिः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्रापः सुखावगाहा अवकिन्यः शङ्खिन्यस्तत्र गत्वापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन मार्जयित्वा ८