संवत्सरमेतद्व्रतं चरेत्संवत्सरे पर्यवेते खिलेऽछदिर्दर्शेऽग्नेरुपसमाधानाद्याज्यभागान्ते द्वे मिन्दाहुती हुत्वा पूर्ववत्प्रधानाहुतीर्जुहुयान्मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा तत आवृत्तैः पृथिवी समिदित्येतैर्मन्त्रैश्चतस्र ओदुम्बरीः समिध आधायावृत्तैर्देवता उपतिष्ठतेऽथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति प्रथमोत्तमयोर्वोत्तमेन शान्तिं कृत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाथैनं संशास्ति ब्रह्मचार्यसीत्याद्यन्तावसायिनमित्यन्तं पूर्ववदादेशः ७