अथातोऽवान्तरदीक्षां व्याख्यास्यामः पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रू वापयित्वा प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता आदधाति पृथिवी समिदित्येतैर्मन्त्रैरथ देवता उपतिष्ठतेऽग्ने व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते शुक्रियं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतामित्यथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति प्रथमोत्तमयोर्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कृत्वा ततः सम्मीलयति वाचं च यच्छत्यथास्याहतेन वाससा शिरः सम्मुखं वेष्टयत्यस्तमित आदित्ये ग्रामं प्रपादयति वाग्यत एतां रात्रिं तिष्ठत्यास्ते वा श्वो भूते खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय सम्परिस्तीर्याथास्य षट्त्रयमभिविदर्शयति सप्ततयमित्येकेऽग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नां हिरण्यं सप्तममपि वादितस्त्रीण्यमिविदर्शयति तत आदित्यमुपतिष्ठते वयः सुपर्णा इत्येतयात्रैतद्वासो गुरवे दत्त्वाथास्य ब्रह्मचर्यमधि नित्ये न नक्तं भुञ्जीत यदि भुञ्जीतापज्वलितं भुञ्जीत न मृन्मयं प्रति धयीत न स्त्रिया न शूद्रेण सम्भाषेत न चक्रीवन्तमारोहेन्न कूपमवरोहेन्नोपानहौ न छत्रं धारयीत न समाजमीक्षेत न हर्म्याणि न शरीराणि न शवं नान्तावसायिनम् ६