०५

चत्वारिंशतमष्टौ चतुर्विंशतिरेव वा सर्वदैव ब्रह्मचर्यं ग्रहणान्तं वा वर्षाणि द्वादशावरार्ध्यमित्यपरं संवत्सरमेतद्व्रतं चरेत्संवत्सरे पर्यवेतेऽग्नेरुपसमाधानाद्याज्यभागान्ते यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति द्वे मिन्दाहुती जुहोति पूर्ववत्प्रधानाहुतीर्हुत्वा व्रतपतिभ्य आधापयत्यग्ने व्रतपते होतृभ्यो व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहा । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते होतृभ्यो व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेत्युपनिषत्सूपनिषद्भ्यो व्रतमचारिषं तदशकं तन्मेऽराधि स्वाहेति चित्तं च चित्तिश्चेति जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाथैनं व्रतान्तेऽध्यापयते श्रावयते वा महा होतार उपनिषद इति सन्तिष्ठते व्रतादेशविसर्जने सन्तिष्ठते व्रतादेशविसर्जने ५