०४

अथातो व्रतादेशविसर्जने व्याख्यास्यामः पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्नेरुपसमाधानाद्याज्यभागान्ते होतृभ्यः स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा स्वयम्भुवे स्वाहेति होतृषु सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा सर्वाभ्यो देवताभ्य उपनिषद्भ्यः स्वाहेत्युपनिषत्सु चतस्रः पालाशीः समिधो घृतान्वक्ता आदधाति याज्ञिकानां वा वृक्षाणामन्यतमस्याग्ने व्रतपते होतृभ्यो व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहा । वायो व्रतपत आदित्य व्रतपते व्रतानां व्रतपते होतृभ्यो व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेत्युपनिषत्सूपनिषद्भ्यो व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यतां स्वाहेति चित्तं च चित्तिश्चेति जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाथैनं संशास्ति ब्रह्मचार्यसि समिध आधेह्यपोऽशान कर्म कुरु मा दिवा सुषुप्था भिक्षाचर्यं चराचार्याधीनो वेदमधीष्वेति ४