०३

एतस्मिन्नेवाग्नावोदनं श्रपयित्वा चतस्रोऽन्नाहुतीर्जुहोत्यग्नये स्वाहाग्नये पवमानाय स्वाहाग्नये पावकाय स्वाहाग्नये शुचये स्वाहेति नवेन च सस्ये सस्ये तत्रेमाभ्य आग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थीभ्यः स्विष्टकृत्पञ्चमीभ्यो वा जुहोतीन्द्राग्निभ्यां स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सोमाय स्वाहा द्यावापृथिवीभ्यां स्वाहाग्नये स्विष्टकृते स्वाहेति पुरस्तात्स्विष्टकृत उपहोमं जुहोति शतायुधाय शतवीर्यायेति पञ्च ततो ब्राह्मणान्भोजयेद्यावज्जीवमेतमग्निं व्रीहिभिर्यवैर्वा सायं प्रातः परिचरत्यग्नये स्वाहेति सायं पूर्वामाहुतिं जुहोति प्रजापतये स्वाहेत्युत्तरां सूर्याय स्वाहेति प्रातः प्रजापतये स्वाहेत्युत्तरामथ यदि प्रयियासेत्प्रवसथकल्पो व्याख्यातः समित्समारोपणोपावरोहणमात्मन्यरण्योर्वा समित्समारोपणमेके समामनन्ति लौकिके चोपावरोहणं व्याख्यातमेकाग्निविधानं सन्तिष्ठत औपासनकल्पः सन्तिष्ठत औपासनकल्पः ३