एकाग्निर्द्वादशाहं विछिन्नः पुनराधेयः स एष औपनायनिकोऽग्निरुक्तस्तस्य परिचर्या समिद्भिर्ब्रह्मचर्ये सायं प्रातर्यथोपदेशं स्नात ओषधीभिर्यथोपपन्नेन वान्नेन स्त्री चैवं भर्तरि प्रमीते पाणिग्रहणादूर्ध्वं पार्वणः पौर्णमास्याममावास्यायां वा रोहिण्यां मृगशिरसि पुनर्वस्वोर्वा मध्यन्दिन आदधीतोद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधाति याज्ञिकात्काष्ठादग्निं मथित्वा लौकिकं वाहृत्य प्रणवेनाहरति ब्रह्मा प्रणवेन प्रसौत्यासीनो व्याहृतीभिः प्रणवेनादधाति भूर्भुवः सुवरॐ पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामि विहाय दौष्कृत्यं साधुकृत्यमिति तत एतैः पृथिव्यां त्वामृत आदधामि सत्ये त्वामृत आदधाम्यृते त्वामृत आदधाम्यमृते त्वामृत आदधामीत्याज्येन चौषधीभिश्च शमनीयाभिरहुतीभिस्तिसृभिः शमयति या ते अग्ने पवमाना पशुषु प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने पावकाप्सु प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसीदं ते तामवरुन्धे तस्यै ते स्वाहेति तिस्र आश्वत्थीः समिधो घृतान्वक्ता आदधात्यग्न आयूंषि पवस इति तिसृभिः समुद्रादूर्मिर्मधुमा ँ! उदारदिति तिस्रः शमीमयीः प्रेद्धो अग्ने दीदिहि पुरो न इत्यौदुम्बरीं विधेम ते परमे जन्मन्नग्न इति वैकङ्कतीं तां सवितुर्वरेण्यस्य चित्रामिति शमीमयीं ततस्तूंष्णीमौपासनं हुत्वा यास्ते अग्ने घोरास्तनुवः स्निक्च स्नीहितिश्चेत्येताभ्यामनुवाकाभ्यामुपस्थाय समानं दार्विहोमिका परिचेष्टा दार्विहोमिकां परिचेष्टां कृत्वा १