अथैतान्यद्भुतप्रायश्चित्तानि भवन्ति कुप्त्वां कपोत उपावेक्षीन्मध्वागार उपावेक्षीत्स्थूणा व्यरौक्षीद्वल्मीक उदेति सोऽहःक्षान्तः प्रयतवस्त्रो ब्राह्मणसम्भाषोऽस्तमित आदित्येऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति पूर्णा पश्चादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययाश्चाग्नेऽस्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा ब्राह्मणानन्नेन परिवेषयेदथैव पयसि स्थालीपाकः पौत्र्यः पशव्यः स्वर्ग्य आयुष्यः स्वयम्भोज्यस्तेन यजेत सर्वेषु पर्वस्वौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्योपस्तीर्णाभिघारितं स्थालीपाकं जुहोति सहस्रमेतु प्रथमं बभ्रूय यशसा सह । आगत्य बभ्रुः पिङ्गाक्षः सहस्रेणावकाङ्क्षतु स्वाहा । दिशो दिशो जातवेदो मह्यं जीवनमावह । पशूनां विश्वरूपाणां यथाहं सुमते वसानि स्वाहा । देवानां सम्भृतो रसः प्राजापत्यं यशो महत् । जुहोम्यन्नानां रसमछिद्रा कीर्तिरस्तु मे स्वाहा । अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रोऽधिराजा एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानां मिथुया कर्भागधेयम् । मोऽस्माकं मोमुहद्भागधेयं स्वाहेति यथोपदेशं काम्यानि बलयश्च ३२
इति भारद्वाजसूत्रे द्वितीयः प्रश्नः