३१

चित्र्यं वनस्पतिं दृष्ट्वा जपत्यारात्ते अग्निर्ज्वलत्वारात्परशुरस्तु ते । निवाते त्वाभिवर्षतु जीव वर्षसहस्रं त्वम् । नमस्तेऽस्तु वनस्पते स्वस्ति मेऽस्तु वनस्पत इति प्राङ्मध्यन्दिनात्क्षीरिणो वृक्षानुपस्पृशेन्नित्यं न्यग्रोधं च सर्वत्र स्वयम्प्रज्वलितेऽग्नौ समिधावादध्यादुद्दीप्यस्व जातवेदोऽपघ्नन्निरृतिं मम । पशूंश्च मह्यमावह जीवनं च दिशो दिशः स्वाहा । मा नो हिंसीर्जातवेदो गामश्वं पुरुषं पशुम् । अहिंसन्नग्न आगहि श्रियं मयि परिपालय स्वाहेत्याधायोपतिष्ठते नमो अग्निषदे रुद्राय वातेषवे रुद्राय नमो रुद्रायाग्निषद इत्यनुभवं परिभवं परिवादं परिक्षवम् । दुःस्वप्नं दुरुदितं शकुनैस्तद्द्विषद्भ्यो दिशाम्यहम् । अनुभूतं परिभूतं शकुनैर्यदशाकुनम् । मृगस्य सृतमक्ष्णया तद्द्विषद्भ्यो दिशाम्यहम् । परेणैतु पापशकुनिः परेणैतु परिक्षवः । अक्षिस्पन्दो दुःस्वप्न इष्टिरसम्पद्यो नो द्वेष्टि तमृच्छत्वित्येतं मन्त्रं जपत्युपबाध उपबाधे च यथालिङ्गं सर्वत्रैवाप उपस्पृशेत् ३१