३०

यदि चतुष्पथं समया व्रजेत्तदनुमन्त्रयते नमः पृथिवीषदे रुद्राय वातेषवे रुद्राय नमो रुद्राय पृथिवीषद इति यदि श्मशानं समया व्रजेत्तदनुमन्त्रयते नमस्तत्सदे रुद्राय वातेषवे रुद्राय नमो रुद्राय तत्सद इति नदीमुद्रन्वतीं दृष्ट्वा जपति नमोऽप्सुषदे रुद्राय वातेषवे रुद्राय नमो रुद्रायाप्सुषद इति यद्येनं संवर्तवात आगच्छेत्तदनुमन्त्रयते नमोऽन्तरिक्षसदे रुद्राय वातेषवे रुद्राय नमो रुद्रायान्तरिक्षसद इति यद्येनं सिचोपसृजेत्तदनुमन्त्रयते सिगसि न सिगसि वज्रो नमस्ते अस्तु मा मा हिंसीरित्यद्भिरभ्युक्षेद्यद्येनं वयोऽभिविक्षिपेत्तदनुमन्त्रयते ये पक्षिणः प्रथयन्ति बिभ्यतो निरृतैः सह । ते मा शिवेन तिग्मेन तेजसोन्दन्तु वर्चसेत्यद्भिरभ्युक्षेद्यद्येनं फलमभिनिपतेत्तदनुमन्त्रयते यदि वृक्षादभ्यपतत्फलं यद्यन्तरिक्षात्तदु वायुरेव । यत्रास्पृक्षत्तनुवं यत्र वास आपो बाधन्तां निरृतिं पराचीरित्यद्भिरभ्युक्षेद्यद्येनमवर्षे प्रुषितमववर्षेत्तदनुमन्त्रयते दिवो नु मा बृहतो अन्तरिक्षादपां स्तोको अभ्यपतच्छिवेन समिन्द्रियेण मनसाहमागां ब्रह्मणा कॢप्तः सुकृतेनेत्यद्भिरभ्युक्षेत् ३०