अथ रथारोहणं यदि रथं लभत आपूर्यमाणपक्षे पुण्ये नक्षत्रे योजयित्वास्थास्यन्पक्षसी अभिमृशति बृहदसीति दक्षिणं रथन्तरमसीत्युत्तरं वामदेव्यमसीति मध्यममश्वमास्थाय चक्रे सम्मार्ष्ट्यङ्कौ न्यङ्कावभित इत्यनुवाकशेषेण यदि शमरथो भवति तद्यज्ञोपवीतं कृत्वाप आचम्य भूमिमभिमृशतीह धृतिरिह स्वधृतिरिह रन्तिरिह रमतिरित्यथ हस्त्यारोहणं यदि हस्तिनं लभत आपूर्यमाणपक्षे पुण्ये नक्षत्रे कल्पयित्वाभ्युपविशतीदमहममुमामुष्यायणमिन्द्रस्य वज्रेणाभिविशाम्युत्तरोऽहं द्विषद्भ्य इत्यथैनमभिक्रामयति वह काल वह श्रियं माभिवहेति समानं शमरथेन यद्यनुपस्तीर्णे स्थण्डिल उपविशेत्तदनुमन्त्रयते नमः पृथिवीषदे रुद्राय वातेषवे रुद्राय नमो रुद्राय पृथिवीषद इति सर्पसृतौ सृजति नमः सर्पसृते रुद्राय वातेषवे रुद्राय नमो रुद्राय सर्पसृत इति शकृद्रीतौ जपति नमः शकृत्सदे रुद्राय वातेषवे रुद्राय नमो रुद्राय शकृत्सद इति यदि नवानि गोमयान्यन्तरातिक्रामेद्गोष्ठमसीत्युक्त्वातिक्रामेत् २९