प्रवासमेष्यन्भार्यायाः परिदां करोति स्थूलाढारिका जीवचूर्णानि कारयित्वामावास्यायां रात्र्यां सुप्तायामुपस्थं प्रतिवपति सोमावास्य परिघमन्येभ्यः पुरुषेभ्योऽन्यत्र मदिति यद्यस्यां बहुतयापीच्छन्ति न हैव सिध्यन्ति यदि कामयेत सिध्येयुरिति बभ्रुमूत्रेण पक्षालयस्वेत्येनां ब्रूयात्प्रवासमेष्यन्नामन्त्रयत इदं वत्स्यामः प्राण आयुषि वत्स्याम इत्यथैनमभिमन्त्रयत आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः । मा त्वा के चिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि । प्राण आयुषि वसासौ पृथिव्यामग्नौ प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि यां स्वस्तिमग्निर्वायुः सूर्यश्चन्द्रमा आपोऽनुसञ्चरन्ति तां स्वस्तिमनुसञ्चरासौ । प्रच्यवस्व भुवस्पत इति प्रतिपद्य श्येनो भूत्वा परापतेत्यन्तेन यं कामयेत स्वस्त्ययं पुनरागच्छेदिति तमेतेन त्र्यृचेनान्वीक्षेत महि त्रीणामवोऽस्त्वितीहैव पुनरागच्छति यं कामयेत नायं पुनरागच्छेदिति तमन्वीक्षेत साकं यक्ष्म प्रपतेत्येतयाथैनमभिमन्त्रयते परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शाश्वतीभ्यः समाभ्य इति न हैव पुनरागच्छति २८