२७

यद्यस्मै सुभृत्याः प्रव्रजेयुरग्निमुपसमाधायेण्ड्वानि जुहुयादनु पोऽह्वदनुह्वयो निवृत्तो वो न्यवीवृतत् । ऐन्द्रः परिक्रोशो वः परिक्रोशतु सर्वतः । यदि मामतिमन्यध्वमदेवा देववत्तरम् । इन्द्रः पाशेन सित्वा वो मह्यमित्पुनरानयादिति वदेद्वा खादिरं शङ्कुं निहत्य नीललोहिताभ्यां सूत्राभ्यामपसव्यैस्त्रिः परिवेष्टयेदावर्तन वर्तयेत्यपि वै यदि दूरगा भवन्तीह हैव वर्तन्ते यं कामयेत नायं मत्पद्येतेति दक्षिणे पाणावभिपद्येत यस्मिन्भूतं च भव्यं च विश्वे देवाः समाहिताः । तेन गृह्णामि त्वामहं मह्यं गृह्णामि त्वामहं ब्रह्मणे त्वा गृह्णामीति न हैवास्मात्पद्यते यं कामयेत नायं मच्छिद्येतेत्यमावास्यां रात्रिं सुप्तं जीवविषणे स्वं मूत्रमानीयापसव्यैस्त्रिः परिषिञ्चन्परीयात्परि त्वा गिरेरमिहं परि भ्रातुः परि ष्वसुः । परि सर्वेभ्यो ज्ञातिभ्यः परिषीतः द्वेष्यसि ॥ शश्वत्परिकुपितेन संक्रामेणावछिदा । उलेन परिमीढोऽसि परिमीढोऽस्युलेनेति न हैवास्मात्पद्यते दीर्घसत्त्रमासिष्यमाणः २७