२६

अथास्मा अन्नं सनिमित्वाभिमन्त्रयतेऽन्नमिव ते दृशे भूयासं वित्तमिव ते दृशे भूयासं श्रीरस्यर्वाच्याविशास्मान्संस्रवन्तु दिशो महीः समागच्छन्तु सूनृताः । सर्वे कामा अभियन्तु मा प्रिया अभिरक्षन्तु मा प्रियाः । यशोऽसि यशोऽहं त्वयि भूयासमसावित्यभिमन्त्र्यार्थं ब्रुवते व्यवजिहीर्षमाणः पण्यस्यावदाय जुहोति यदहं धनेन प्रपणं चरामि धनेन देवा धनमिच्छमानः । तस्मिन्सोमो रुचमादधात्वग्निरीशान इन्द्रो बृहस्पतिश्च स्वाहेत्यथ संवादजयनं संवादमेष्यन्नात्तछत्रः सव्येन हस्तेन छत्रं समावृत्य दक्षिणेन फलीकरणमुष्टिं जुहोत्यवजिह्वक निजिह्वकाव त्वा हविषा यजे । तत्सत्यं यदहं वदाम्यधरो मदसौ वदात्स्वाहेति येन संवदते तमभिमन्त्रयत आ ते वाचमास्यां दद आ मनस्यां हृदयादधि । अङ्गादङ्गात्ते वाचमाददे यत्र यत्र ते वाङ्निहिता तां त आददे । तत्सत्यं यदहं वदाम्यधरो मत्पद्यस्वासाविति २६