२५

अथास्मा अन्नं संस्कृत्य भूतमिति वेदयते तत आह ब्राह्मणांश्चतुरो नानागोत्रान्भोजयतेति तेषु भुक्तवत्स्वन्नमाहरन्ति तदेतेनैव प्रतिमन्त्र्य प्रतिगृह्य प्रत्यवरुह्य प्राश्नाति यथा मधुपर्कं प्रत्यवरुह्यैवात ऊर्ध्वमन्नानि प्राश्नीयादित्येकमथैतदपरमर्ध्येष्वेवैष नियमः स्याद्यथाकामीतरेष्वथ यदि गामुत्सृजेत्तामभिमन्त्रयते गौर्धेनुभव्या माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजतेत्यथ सोमप्रवाकाय यत्रास्मै सोमं प्राह तद्यज्ञोपवीतं कृत्वाप आचम्य प्राङ्वोदङ्वा तिष्ठञ्जपत्यासीनो वा भूर्भुवः सुवरायुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोच आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान्भूयासं भूर्भुवः सुवः सर्वं भूयासमित्युक्त्वा प्रति वाचष्टे प्रति वां जानीत एतेनैव भूतप्रवाकायॐ तन्मा क्षायीत्यन्तेन २५