२४

अथास्मा अर्घ्यमिति वेदयते तदेतेनैव प्रतिमन्त्र्य विराजो दोहोऽसि विराजो दोहमशीय मयि दोहः पद्यायै विराज इति प्रतिगृह्य निनयति समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अछिद्रः प्रजया भूयासं मा परासेचि मत्पय मत्पय इत्यथास्मा आचमनीयमिति वेदयत आचामत्यमृतोपस्तरणमसीत्याचान्तोदकायाथास्मै मधुपर्क इति वेदयते तत्प्रतिमन्त्रयते यन्मधुनो मधव्यं परममन्नाद्यं रूपं तेनाहं मधुनो मधव्येन परमेणान्नाद्येन रूपेण परमोऽन्नादो मधव्यो भूयासमिति प्रतिगृह्य प्राश्नाति त्रय्यै विद्यायै यशोऽसि यशसो यशोऽसि ब्रह्मणो दीप्तिरसि तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति भूर्भुवः सुवरिति त्रिराचम्याथ रातये प्रयच्छति स्वयं वा सर्वं प्राश्नात्यथास्मा आचमनीयमिति वेदयत आचामत्यमृतापिधानमसीत्याचान्तोदकायाथास्मै गौरिति वेदयते तां प्रतिमन्त्रयते गौरस्यपहतपाप्माप पाप्मानं जहि पाप्मानं मम चामुष्य च जहि द्विषन्तं हनीथा मम द्विषं कुरुतेति २४