अथार्घ्यं जिहीर्षन्नर्ध्यं वेदयते जिहीर्षामेति कुरुतेत्याह कंसे दध्यानीय मध्वानयति ह्रसीयस्यानीय वर्षीयसापिदधाति पूर्वः कूर्चेन प्रतिपद्यतेऽन्वङ्पाद्येनान्वङ्ङर्घ्येणान्वङ्ङाचमनीयेनान्वङ्मधुपर्केणानुसंव्रजत्यथास्मा आसनमिति वेदयते तत्प्रतिमन्त्रयते राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमिति राजा ब्राह्मणो वा राष्ट्रभृदस्यधिपत्यासन्दी मा त्वद्योषमिति ग्रामणीः सेनानीर्वाथास्मै पाद्यमिति वेदयते तत्प्रतिमन्त्रयत आपः पादावनेजनीर्द्विषन्तं नाशयन्तु मे । अस्मिन्कुले ब्रह्मवर्चस्यसानि मयि महो मयि यशो मयीन्द्रियं वीर्यम् । आ मा गन्यशसा वर्चसा संसृज पयसा तेजसा च तं मा प्रियं प्रजानां कुर्वधिपतिं पशूनामिति सव्यं पादं प्रतिगृह्य दक्षिणं प्रतिगृह्णीयाद्दक्षिणं राजा ग्रामणीः सेनानीर्वा २३