२२

उद्धृत्य प्रक्षाल्य दक्षिणमेवाग्रे प्रतिमुञ्चत आयुष्यं वर्चस्यमित्येतदेव मणिकुण्डलबन्धने विद्यादथ स्रजं प्रतिमुञ्चते श्रुभिके शिर आरोह शोभयन्ती मुखं मम । मुखं हि मम शोभय भूयांसं च भगं कुरु ॥ यामाहरज्जमदग्निः श्रद्धायै कामायान्यै । इमां तां प्रतिमुञ्चेऽहं भगेन सह वर्चसेति अथाङ्क्ते यदाञ्जनं त्रैककुदं जातं हिमवत उपरि मयि पर्वतवर्चसमित्यादर्शमवेक्षते यन्मे वर्चः परापतितमात्मानं परिपश्यतः । इदं तत्पुनराददे भगेन सह वर्चसेति वाग्यत आस्त आ नक्षत्राणामुदयादुदितेषु नक्षत्रेषूपानहावुपमुञ्चते द्यौरसीति दक्षिणां पृथिव्यसीत्युत्तरामुपमुच्याभिमन्त्रयते प्रतिष्ठे स्थो देवते मा मा सन्ताप्तमिति दण्डमादत्ते लोके वेदायास्मि द्विषतो वधाय सपत्नाञ्छ्वापदान्सरीसृपान्हस्तिनश्चेति छत्रमादत्ते प्रजापतेः शरणमसि ब्रह्मणः छदिरित्युपनिष्क्रम्य दिशोऽनुवीक्षते देवीः षडुर्वीरुरु नः कृणोतेति चन्द्रमसमुदीक्षते मा रधाय द्विषते सोम राजन्निति यत्रास्य रातिर्भवति तेन सम्भाष्य यथर्थमेतीत्येकमथैतदपरं तूष्णीमेव तीर्थे स्नात्वोदेत्य तूष्णीं पालाशीं समिधमादधाति संवत्सरं न मैथुनं चरति द्वादशरात्रं त्रिरात्रं वा सर्वा स्थितयः २२