अपरेणाग्निं प्राङ्मुख उपविश्य सोपधानं मणिं प्रवयति सपाशं बादरं मणिमुदपात्रेऽवधाय प्रदक्षिणं पर्याप्लावयतीयमोषधे त्रायमाणा सहमाना सहस्वती सा मा हिरण्यवर्चसं ब्रह्मवर्चसिनं मा करोत्वित्युद्धृत्याक्ष्णयैव पर्याहृत्य प्रतिमुञ्चतेऽपाशोऽसीत्युरसि स्थापयत्युरो मे मा संशारीः शिवो मोपशेष्व मह्यं दीर्घायुत्वाय शतशारदायेति हस्तेन बादरं मणिमूर्गसीत्यर्की मणिर्ब्राह्मणस्य पुलको वैश्यस्य राज्ञो गर्दभसुग्रीवोऽर्को मणिर्ब्राह्मणस्य वैश्यस्य पुलको मणिः । राज्ञो गर्दभसुग्रीवो यस्य कस्य कपित्थक इति मणिधारणे गाथा भवति निधायाहतमन्तरं परिधत्त आयुषे त्वेति जरामशीयेत्युत्तरमहतस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्यस्योपघातं जुहोत्यायुष्यं वर्चस्यं सुवीर्यं रायस्पोषमौद्भिद्यमिदं हिरण्यमायुषे वर्चसे जैत्रियायाविशतान्मां स्वाहा उच्चैर्वाजि पृतनाजित्सत्रासाहं धनञ्जयम् सर्वाः समृद्धीरृद्धयो हिरण्येऽस्मिन्समाहिताः स्वाहा शुनमडं हिरण्यस्य पितुरिव नामाग्रभैषम् तं मा हिरण्यवर्चसं पुरुषु प्रियं कुरु स्वाहा प्रियं मा देवेषु कुरु प्रियं मा ब्राह्मणे कुरु प्रियं विश्वेषु शूद्रेषु प्रियं राजसु मा कुरु स्वाहा संराजं च स्वराजं चाभिष्टीर्या च नो गृहे लक्ष्मी राष्ट्रस्य या मुखे तया मा संसृजामसि स्वाहेति २१