दन्तान्प्रक्षालयतेऽन्नाद्याय व्यूहध्वं सोमो राजेदमागमत् । स मा प्रविशत्वन्नाद्येन भगेन च दीर्घायुरहमन्नादो भूयासमिति सार्वसुरभिणा प्रलेप्स्यमानः प्रोक्षति नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीरित्यथानुलिम्पेद्यद्वर्चो अपसरासु च गन्धर्वेषु च यद्यशः । दिव्यो यो मानुषो गन्धश्च स माविशतादिहेति समुन्नीय चन्दनेनानुलेप्स्यमान एवं प्रोक्षत्येवमनुलिम्पेदथाहतमन्तरं परिधत्त आयुरसीति जरामशीयेत्युत्तरं यज्ञोपवीतं कृत्वाप आचम्य जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति दीक्षा तपो मनसो मातरिश्वा बृहस्पतिर्वाचो अस्याः स योनिः । वेदांसि विद्या मयि सन्तु चारवोऽग्निषोमा यशो अस्मासु धत्तम् । अग्निर्येन विराजति सोमो येन विराजति सूर्यो येन विराजति विराड्येन विराजति तेनाहं विश्वतः परिविराज्यासमिहैकवृत्स्वाहेति २०