दक्षिणतो नापित उपविशति तस्य क्षुरमभिमन्त्रयते शिवो नामासि स्वधितिस्ते पिता । नमस्ते अस्तु मा मा हिंसीरित्यद्भिरुद्यमानमभिमन्त्रयते शिवा मे भवथ संस्पृश इति क्षुरमभिनिधीयमानमभिमन्त्रयते यदृषीणां त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमिति वपन्तं यत्क्षुरेण मर्चयता सुपेशसा वप्त्रा वपसि वर्चसा मुखं मा न आयुः प्रमोषीरिति श्मश्रूणि वापयित्वोपपक्षौ निवापयतेऽथ केशान्यथोपपादमङ्गान्येवमेवात ऊर्ध्वं वापयते पश्चार्धे व्रजस्योपविश्य मेखलां विस्रस्य परिकर्मणे प्रयच्छतीमां हृत्वा स्तम्ब उपगूहेति तां स हृत्वा स्तम्ब उपगूहतीदमहममुष्यामुष्यायणस्य द्विषन्तं भ्रातृव्यमुपगूहाम्युत्तरोऽसौ द्विषद्भ्य इति तत आप उपशेरत उष्णाश्च शीताश्च शीतासूष्णा आनयति दैवमानुषस्य व्यावृत्या इति विज्ञायते संसृष्टाभिरद्भिरभिषिञ्चत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः श्रुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्येतेनानुवाकेन स्नानीयेन प्रताप्य १९