वेदमधीत्य स्नात्यन्नुपकल्पयते पालाशीं समिधमुदपात्रं चैरकां चीपबर्हणं च स्नानीयपिण्डं च सार्वसुरभिपिष्टं चन्दनं च सूत्रं सोपधानं मणिं सपाशं बादरं मणिमुत्तरासङ्गं च सान्तरमहते च प्रवर्तौ च स्रजं चाञ्जनं चादर्शोपानहौ दण्डं च छत्रं चाथ नक्षत्राणि तिष्य उत्तरे फल्गुनी हस्तश्चित्रा स्वाति विशाखे इत्येतेषामेकस्मिन्पुरोदयादादित्यस्य व्रजं प्रपद्यत एतदहःस्नातानां ह वा एष एतत्तेजसा तपति तस्मादेनमेतदहर्नाभितपेदन्तर्लोम्ना चर्मणा द्वारमपिधाय पूर्वार्धे व्रजस्याग्निमुपसमाधाय मध्यन्दिने पालाशीं समिधमादधातीमं स्तोममर्हते जातवेदसे रथमिव सम्महेमा मनीषया । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव स्वाहेति तत एतान्सम्भारान्सकृदेव सर्वानाहृत्य तानुत्तरतोऽग्नेर्निधायापरेणाग्निमुत्तरतःपरिषेवनामेरकामास्तीर्य तस्यामुदक्शिरा निपद्यते १८