१७

उपस्थितेऽन्ने ओदनस्य मांसानामिति समवदय सर्पिर्मिश्रस्य जुहोत्येकाष्टकां पश्यत दोहमानामन्नं मांसवद्घृतवत्स्वधावत् । तद्ब्राह्मणैरतिपूतमनन्तमक्षय्यं मे अस्तु स्वधा नमः पितृभ्यः स्वाहा । एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तां दोहमुपजीवाथ पितरः सहस्रधा मुच्यमानां पुरस्तात्स्वधा नमः पितृभ्यः स्वाहा । वहान्नं जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । अन्नस्य कुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति पुरस्तात्स्विष्टकृत एतानुपहोमान्जुहोतीयमेव सा या प्रथमा व्यौच्छदेकाष्टका तपसा तप्यमाना या प्रथमा व्यौच्छत्संवत्सरस्य प्रतिमां प्रजापत इति पञ्च ततः सौविष्टकृतं जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः पितृभ्यः स्वाहेति श्वो भूते पितृभ्यो मांसशेषेण मासिश्राद्धस्यावृता श्राद्धं करोति १७