१६

श्वो भूते पितृभ्यो गामालभतेऽग्निमुपसमाधाय यथा पुरस्तादाज्येन प्रायश्चित्तं हुत्वैकेन बर्हिषैकशूलया च वपाश्रपण्योपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीतीमां पितृभ्यो गामुपाकरोत्यूर्जस्वतीं पयस्वतीं तां मे जुषन्तां पितरः समेताः । मेदस्वती घृतवती स्वधावती सा मे पितृन्साम्परायै धिनोत्वित्युपाकरणीयां हुत्वा पितृभ्यस्त्वा जुष्टां प्रोक्षामीति प्रोक्षितां पर्यग्निकृतां प्रत्यक्शिरसं दक्षिणापदीं सञ्ज्ञपयन्ति सञ्ज्ञप्ताया अद्भिः प्राणानाप्याय्य तूष्णीमेव वपामुद्धृत्य हृदयमुद्धरति प्रज्ञाते च मतस्ने औदुम्बर्यां वपाश्रपण्यां वपां श्रपयित्वौदुम्बरेषु शूलेषु पृथगितराणि श्रपयित्वौदुम्बर्या दर्व्योपस्तीर्णाभिघारितां वपां जुहोति वह वपां जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । मेदसः कुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति १६