१५

अष्टकां व्याख्यास्याम उपरिष्टान्माघ्याः प्राक्फाल्गुन्या यो बहुलस्तस्याष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते तस्यां सम्भारानुपकल्पयते गां प्रशस्याष्टकापूपं चतुःशरावं तूष्णीं निर्वपति षट्कपालो भवत्येककपालो वा तस्य दार्विहोमिकः संस्कारस्तमौपासने श्रपयित्वौपासन एव जुहोत्युलूखला ग्रावाणो घोषमक्रत हविः कृण्वन्तः परिवत्सरीणम् । एकाष्टके सुप्रजा वीरवन्तो वयं स्यामः पतयो रयीणां स्वधा नमः पितृभ्यः स्वाहा । अयं चतुःशरावा घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमांश्च । प्रतिगृह्णन्तु पितरः संविदानाः स्विष्टः सुहुतोऽयं ममास्तु स्वधा नमः पितृभ्यः स्वाहा । वहापूपं जातवेदः पितृभ्यो यत्रैनान्वेत्थ निहितान्पराके । अपाओ!पकुल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नमः पितृभ्यः स्वाहेति पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोति पूर्णा पश्चात्त्वमग्ने अयासि प्रजापत इएइ तिस्रस्ततः सौविष्टकृतं जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः पितृभ्यः स्वाहेति १५