अथान्नमभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके पृथिवी समा तस्याग्निरुपद्रष्टर्चस्ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके अन्तरिक्षां समं तस्य वायुरुपद्रष्टा सामानि ते महिमा । पृथिवी ते पात्रं द्यौरपिधानं ब्रह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके द्यौः समा तस्यादित्य उपद्रष्टा यजूंषि ते महिमेति ब्राह्मणानन्नेन परिविष्य प्रदिष्टमुदपात्रं चादाय दक्षिणपूर्वमवान्तरदेशं गत्वा प्रदिष्टमुदपात्रेणोपप्रवर्तयति परायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ मासि पुनरायात नो गृहान्हविरत्तुं सुप्रजसः सुवीरा इति सर्वतः समवदाय शेषस्य प्राश्नातीदमन्नं पूर्यतां चापूर्यतां च तन्नः सह देवैरमृतमस्तु प्राणेषु त्वामृतं जुहोमि स्वाहेति १४