१३

एतत्ते प्रपितामहासौ मधुमदन्नं सरस्वतो यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावतीं त एतां मात्रां भूतां ददामि यथादित्योऽक्षितोऽनुपदस्त एवं मह्यं प्रपितामहायाक्षितोऽनुपदस्तः स्वधा भवतां त्वं स्वधामक्षितं तैः सहोपजीव यांश्च त्वमत्रान्वसि ये च त्वामनु । अत्र पितरो यथाभागं मन्दध्वमित्युक्त्वा पराङावर्तत ओष्मणो व्यावृत उपास्ते व्यावृत्त ऊष्मण्यभिपर्यावर्ततेऽव्यावृत्ते वामीमदन्त पितरः सोम्या इत्यभिपर्यावृत्य नमस्कारैरुपतिष्ठते नमो वः पितरो रसायेति प्रतिपद्याहं तेषां वसिष्ठो भूयासमित्यन्तेनाद्भिः पात्रं प्रक्षाल्य पूरयित्वा प्रसव्यं त्रिः परिषिञ्चति पुत्रान्पौत्रानभितर्पयन्तीरापो भधुमतीरिमाः । स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु । ऊर्जं वहन्तीः क्षीरमुदकं घृतं पयः कीलालं परिस्रुतं नदीरिमा उदन्वतीर्वेतस्विनीः सुतीर्थ्या अमुष्मिन्लोक उप वः क्षरन्तु । ऊर्जस्वतीः पयस्वतीर्मधुना घृतेन स्वधा स्थ तर्पयत मे पितॄनित्यप्रतीक्षमेत्य १३