अथान्नस्य जुहोत्यग्नये पितृमते स्वाहा सोमाय पितृमते स्वाहा यमायाङ्गिरस्वते पितृमते स्वाहा स्वधा नमः पितृभ्यः स्वाहाग्नये कव्यवाहनाय स्विष्टकृते स्वधा नमः पितृभ्यः स्वाहेति परिषिच्य दक्षिणतो दर्भमुष्टिं निधाय तस्मिन्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीनुपनिनयत्यसाववनेनिक्ष्वेति पितरमसाववनेनिक्ष्वेति पितामहमसाववनेनिक्ष्वेति प्रपितामहमत्रैव नामादेशमवाचीनपाणिस्तस्मिन्दक्षिणापवर्गांस्त्रीन्पिण्डान्निदधात्येतत्ते ततासौ मधुमदन्नं सरस्वतो यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावतीं त एतां मात्रां भूतां ददामि यथाग्निरक्षितोऽनुपदस्त एवं मह्यं पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां त्वं स्वधामक्षितं तैः सहोपजीव यांश्च त्वमत्रान्वसि ये च त्वामनु । एतत्ते पितामहासौ मधुमदन्नं सरस्वतो यावान्वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावतीं त एतां मात्रां भूतां ददामि यथा वायुरक्षितोऽनुपदस्त एवं मह्यं पितामहायाक्षितोऽनुपदस्तः स्वधा भवतां त्वं स्वधामक्षितं तैः सहोपजीव यांश्च त्वमत्रान्वसि ये च त्वामनु १२