अमावास्यायामपराह्णे मासिश्राद्धमपरपक्षस्य वायुक्ष्वहःसु पितृभ्योऽन्नं संस्कृत्य प्राचीनावीतं कृत्वाग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दर्भैरग्निं परिस्तीर्य दक्षिणपूर्वमवान्तरदेशमभिमुखः पितॄनावाहयत्यायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं च । आयात पितामहाः प्रपितामहाश्चानुगैः सह । असुङ्गमाः सत्ययुजोऽवृकासः । आ नो हवं पितरोऽद्यागमन्तु । एह गच्छन्तु पितरो हविषे अत्तवा इत्येतामेव दिशमभ्यपः प्रसिञ्चत्यापो देवीः प्रहिणुतेमं यज्ञं पितरो नो जुषन्तां मासीनामूर्जमुत ये भजन्ते ते नो रयिं सर्ववीरां नियच्छन्त्विति परिषिच्य जुहोति याः प्राचीः सम्भवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधेऽमुष्मै स्वाहा । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या । दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधेऽमुष्मै स्वाहा । अन्तर्दध ऋतुभिहोरात्रैः ससन्धिकैः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधेऽमुष्मै स्वाहा । यद्वः क्रव्यादङ्गमदहल्लोकानयं प्रणयञ्जातवेदाः । तद्वो अहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः सम्भवत पितरः स्वधा नमः पितृभ्यः स्वाहेति ११