१०

अथापराणि द्वारपोपस्पृश द्वारपाय स्वाहा द्वारप्युपस्पृश द्वारप्यै स्वाहेति चत्वार्यथ पर्णपुटं कृत्वा तस्मिन्नुपस्तीर्णाभिघारितमोदनपिण्डं समवदाय परोगोष्ठे वृक्ष आसजति निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहेत्यथोपतिष्ठते नमो निषङ्गिण इषुधिमत इत्यप्रतीक्षमेत्याथान्वासारिभ्यो जुहोत्यन्वासारिण उपस्पृशतान्वासारिभ्यः स्वाहेति द्वे पलाशे अथोपतिष्ठते नमस्ते रुद्र मन्यव इत्येतैरेकादशभिरनुवाकैः प्रथमोत्तमाभ्यां वाभित एतमग्निं गा स्थापयति यथा धूममाजिघ्रेयुरित्याज्यशेषमोदनशेषमुदकुम्भशेषमित्येकधा समवनीयोदुम्बरशाखया प्रदक्षिणं गास्त्रिः प्रोक्षति शिवं गोभ्यः शिवं गोपतय इत्यृषभस्य पृष्ठे शेषं निनयत्येतं युवानमित्येताभिः पञ्चभिरथातः क्षैत्रपत्यस्य गवां मार्गेऽनग्नौ क्षेत्रस्य पतिं यजते क्षेत्रस्य पतये स्वाहेति चतुर्षु सप्तसु वा पलाशेषु तं तथावाहयति यथा शूलगवं तूर्णं यजते पाको देव उपतिष्ठते क्षेत्रस्य पतिना वयमिति द्वाभ्यामथैनं क्षैत्रपत्यं ये सनाभयो भवन्ति ते प्राश्नन्ति यथा वैषां कुलधर्मो भवति १०