पत्न्योदनस्य पत्नीभ्यो जुहोति भवस्य देवस्य पत्न्यै स्वाहा शर्वस्य देवस्य पत्न्यै स्वाहेशानस्य देवस्य पत्न्यै स्वाहोग्रस्य देवस्य पत्न्यै स्वाहा भीमस्य देवस्य पत्न्यै स्वाहा रुद्रस्य देवस्य पत्न्यै स्वाहा पशुपतेर्देवस्य पत्न्यै स्वाहा महतो देवस्य पत्न्यै स्वाहेति जयन्ताय स्वाहेति मध्यमस्य जुहोति सर्वेषामोदनानां सकृत्सकृत्समवदायाभिघार्य जुहोत्यग्नये स्विष्टकृते स्वाहेत्यथोपतिष्ठते स्वस्ति नः पूर्णमुखः परिक्रामत्वित्यथातः पर्णविहारो गृहपोपस्पृश गृहपाय स्वाहा गृहप्युपस्पृश गृहप्यै स्वाहा जयन्तोपस्पृश जयन्ताय स्वाहेति षट् पलाशान्यथापराणि घोषिण उपस्पृशत घोषिभ्यः स्वाहा श्वासिन उपस्पृशत श्वासिभ्यः स्वाहा विचिन्वन्त उपस्पृशत विचिन्वद्भ्यः स्वाहा प्रचिन्वन्त उपस्पृशत प्रचिन्वद्भ्यः स्वाहा समश्नन्त उपस्पृशत समश्नद्भ्यः स्वाहेति दशाथापराणि देवसेना उपस्पृशत देवसेनाभ्यः स्वाहेति दशैवाथापराणि या आख्याता देवसेना याश्चानाख्याताश्च ता उपस्पृशत ताभ्यः स्वाहेति दशैव ९