शूलगवं व्याख्यास्याम आपूर्यमाणपक्षे पुण्ये नक्षत्रे पयसि स्थालीपाकं श्रपयित्वा प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय सम्परिस्तीर्यापरेणाग्निं द्वे कुटी कृत्वा शूलगवमावाहयत्या त्वा वहन्तु हरयः सुचेतसः श्वेतैरश्वैः सह केतुमद्भिः । वाताजिरैर्मम हव्याय शर्वोमिति दक्षिणस्यां शूलगवमुत्तरस्यां मीढुषीं मध्ये जयन्तं यथोढमुदकानि प्रदाय त्रीनोदनानुद्धृत्य यथोढमेवोपस्पर्शयत्युपस्पृशतु मीढ्वान्मीढुषे स्वाहोपस्पृशतु मीढुषी मीढुष्यै स्वाहा जयन्तोपस्पृश जयन्ताय स्वाहेति शूलगवस्याग्निमभ्युदाहृत्य जुहोति भवाय देवाय स्वाहा शर्वाय देवाय स्वाहेशानाय देवाय स्वाहोग्राय देवाय स्वाहा भीमाय देवाय स्वाहा रुद्राय देवाय स्वाहा पशुपतये देवाय स्वाहा महते देवाय स्वाहेति ८