श्वग्रहप्रायश्चित्तं श्वोपस्पृष्टे तद्यज्ञोपवीतं कृत्वाप आचम्यानाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्याथ सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधायोपरिष्टात्सभायां व्यूह्य तृणानि तेन कुमारमन्ववहृत्याक्षेषूत्तानं निपात्य दध्ना लवणोदकमिश्रेणाभ्युक्ष्य जपत्याघ्नन्ति कंसं दक्षिणतः कुर्कुरः सुकुर्कुरः कुर्कुरो बालबन्धनः उपरिष्टाद्यदेजायतृतीयस्यामितो दिवि औलब इत्तमुपाह्वयाथार्जीच्छ्यामः शबलः अधोराम उलुम्बलः सारमेयो ह धावति समुद्रमिव चाकशत् बिभ्रन्निष्कं च रुक्मं च शुनामग्रं सुबीरिणः सुबीरिण सृज सृजैकव्रात्य शुनक सृज छत् तत्सत्यं यत्त्वेन्द्रोऽब्रवीद्रा स्पाशयस्वेति तास्त्वं स्पाशयित्वागच्छस्तं त्वाब्रवीदविदहा इत्यविदं हीति वरं वृणीष्वेति कुमारमेवाहं वरं वृण इत्यब्रवीः निगृह्य बाहू प्लवसे द्यामिव चाकशत् बिभ्रन्निष्कं च रुक्मं च शुनामग्रं सुबीरिणः सुबीरिण सृज सृजैकव्रात्य शुनक सृज छत् तत्सत्यं यत्ते सरमा माता लोहितः पिता अमी ये के सरस्यका अवधावति तृतीयस्यामितो दिवि तेकश्च ससरमतण्डुलः कुलश्च विकुलश्चार्जुनश्च लोहितश्च उत्सृजेमं शुचीमनस्त्वं पिशङ्गलोहितः दुला ह नाम वो माता मण्डाकको ह वः पिता छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर सं तक्षा हन्ति चक्री वो न सीसरीदत छदपेहि सीसरम सारमेय नमस्ते अस्तु सीसर समश्वा वृषणः पदो न सीसरीदत श्वानमिच्छादन्न पुरुषं छदिति त्रिः प्रातर्मध्यन्दिने सायमगदो हैव भवतीत्याह ततः कुर्याद्यदि नागदः स्यात् ७