तत्पूर्वं वास्तुशमनमथान्यच्छरणे कृत उदुम्बरपलाशानि ससुषिराणि यवैः सह गोमयं शाड्वलं रासभं मधु चैवात्र सप्तमं तैरगारं वास्तु च परिप्रोक्षेत्पूर्ण उदधिर्भवति प्रज्वलितोऽग्निर्भवति ब्राह्मणमग्रे प्रवेशयति ब्राह्मणमाह प्रविशानीति प्रविशतु भवानायुषा वर्चसा श्रियावृत इति ब्राह्मणानुमतः प्रविशति भूः प्रपद्ये भुवः प्रपद्ये श्रियं प्रपद्ये श्रीर्मा प्रविशत्विति ब्राह्मणमनु प्रविश्य जयाभ्यातानान्राष्ट्रभृत इति हुत्वाग्निं देवानां महयत्यग्निर्देवानामधिपतिः पुरीष्यो हव्यवाहनः । तं त्वैमि शरणं देव सपुत्रः सह ज्ञानिभिः स्वाहा । सदासभार्यः सामात्यः सायामग्नये स्वाहेत्यग्निं महयित्वाथ राजानमीडते त्वद्दत्तं वै बलं राज्ये त्वत्पूर्तमिह जीवते । हिरण्यवर्ण हर्यक्ष अर्थं मह्यं साधय स्वाहा । कुबेराय स्वाहा महाराजाय स्वाहा वैश्रवणाय स्वाहेति राजानं महयित्वाथेन्द्रं देवानां महयति त्रातारमिन्द्रमिन्द्रं विश्वा अवीवृधन्नितीन्द्रं महयित्वा विश्वान्देवान्महयति विश्वे देवा विश्वे देवा इति द्वाभ्यां विश्वान्देवान्महयित्वा ५