अगारप्रवेशं व्याख्यास्याम आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति वास्तोष्पत इति द्वे वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व स्वाहा । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत विरान्स्वाहेति भूमिमभिमृशति प्रति क्षत्रे प्रति तिष्ठामि राष्ट्र इति द्वाभ्यामिदं श्रेयोऽवसानं यदागां स्योने मे द्यावापृथिवी अभूताम् । अनमीवाः प्रदिशः सन्तु मह्यं गोमद्धनवदश्ववदूर्जस्वत्सुवीरवदिति चैतयाहतं वास आच्छाद्य तद्वास्तु परिमापयेदृतं वृणीष्व मावार्यं मा नो हिंसीः कदाचन । स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथा इत्युदायुषा स्वायुषेत्युपोत्थायोपसमूह्य ब्राह्मणानन्नेन परिवेषयेत् ४