०३

शालाकर्म व्याख्यास्यामः शालां कारयिष्यमाण आपूर्यमाणपक्षे पुण्ये नक्षत्रे ब्राह्मणानन्नेन परिविष्य परिलिख्येहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठतु घृतमुक्षमाणा । तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा अनुसञ्चरेमेति दक्षिणां द्वारस्थूणामुच्छ्रयतीहैव ध्रुवा प्रतितिष्ठ शालेऽश्ववती गोमती सूनृतावती । ऊर्जस्वती पयस्वती घृतवत्युच्छ्रयस्व महते सौभगायेत्युत्तरामा त्वा कुमारस्तरुण आ वत्सो जगता सह । आ त्वा परिस्रुतः कुम्भ आ दध्नः कलशीरयन्निति सम्मिते अभिमृशत्येवमेव स्थूणाराजावुच्छ्रयत्येवमभिमृशत्यृतेन स्थूणावधिरोह वंशोग्रो विराजन्नपसेध शत्रून् । अथास्मभ्यं सर्ववीरां रयिं दा इति पृष्ठवंशमधिरोपयति मानस्य पत्नि शरणा स्योना देवेभिर्विमितास्यग्रे । तृणं वसाना सुमना असस्त्वं शं न एधि द्विपदे शं चतुष्पद इति छन्नामभिमृशति ३