०२

तत आग्रहायण्यां पौर्णमास्यामेवमेवैतत्कर्म क्रियते यदन्यद्धानाप्राशनात्परिषेचनादिति सर्वं तत्क्रियत आग्नेयेन स्थालीपाकेन पर्वसु यजते तस्य पुरस्तात्स्विष्टकृत एता आहुतीर्जुहोतीडायाः पदं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वनूपास्तेषां सप्तानामिह रन्तिरस्तु पुष्ट्यै स्वाहा यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमिवायतीम् संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा पौर्णमासी पूरयन्त्यायात्यपरापरम् अर्धमासान्विभजन्ती सा नः पूर्णाभिरक्षतु स्वाहा शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा संवत्सरं कल्पयन्ती सा नः कामदुघा भवत्स्वाहा पूर्णा पश्चात्त्वमग्ने अयासि प्रजापत इति तिस्रस्ततः सौविष्टकृतं जुहोत्यग्नये स्विष्टकृते स्वाहेत्यथ हेमन्तप्रत्यवरोहणं यत्र प्रत्यवरोक्ष्यन्भवति तदुपतिष्ठते प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रति तिष्ठामि गोषु । प्रति प्रजायां प्रति तिष्ठामि भव्ये । स्योना पृथिवि नो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथा इति २