०१

श्रवणकर्म व्याख्यास्यामः श्रावण्यां पौर्णमास्यामुपकल्पयतेऽक्षतधानाश्चाक्षतसक्तूंश्च जात्यं चाञ्जनमस्तमित आदित्येऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वाक्षतधानानां चाक्षतसक्तूनां च समवदायाभिघार्य जुहोत्याग्नेयाय पाण्डराय पार्थिवानामधिपतये स्वाहेति प्रथमामाहुतिं जुहोति श्वेताय वायव्यायान्तरिक्षाणामधिपतये स्वाहेति द्वितीयामभिभुवे सूर्याय दिव्यानामधिपतये स्वाहेति तृतीयामुपनिष्क्रम्य स्थण्डिल एवैता आहुतीर्जुहोत्यपि वा समीची नामासि प्राची दिगिति सर्पाहुतीः प्राशनार्था धाना उपकल्प्याक्षतधानाश्चाक्षतसक्तूंश्च जात्यं चाञ्जनं स्थण्डिले न्युप्याभिमन्त्रयते नमोऽस्तु सर्पेभ्य इति तिसृभिस्ततो यावन्तं देशं कामयत इमं सर्पा नागच्छेयुरिति तं सन्ततयोदधारयानुपरिषिञ्चत्यप श्वेत पदा जहि पूर्वेण चापरेण च । सप्त च मानवैरिमास्तिस्रश्च राजबन्धवैः । न वै श्वेतस्याध्याचारेऽहिर्ददंश कां चन । श्वेताय वैदर्व्याय नम इति तत एता धाना असमेत्यावगिरन्ति यावन्तो हविरुच्छिष्टाशा भवन्ति तत एतांश्चतुरो मासान्सर्पेभ्यो बलिं हरन्ति सक्तून्वैवमर्थान्कुर्वन्त्यपि वा यद्यदन्नं क्रियते तस्य तस्य १