२८

अथास्य सांवत्सरिकस्य चौडं कुर्वन्ति यथर्षि यथोपज्ञं वा विज्ञायते च यत्र बाणाः सम्पतन्ति कुमारा विशिखा इवेति बहुशिखा इवेत्यथान्नं संस्कृत्य ब्राह्मणान्भोजयित्वाशिषो वाचयित्वान्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति पूर्णा पश्चादिमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्नेऽयास्यनभिशस्तीश्च यदस्य कर्मणोऽत्यरीरिचं प्रजापत इत्युत्तमां हुत्वा गुरवे वरं ददात्यपरेणाग्निं गोमयपिण्डं सर्वबीजानीत्युपनियम्य सर्वबीजानामग्रं गोमयपिण्डे न्युप्य शीतोष्णा अपः समानीय ताभिरस्य दक्षिणं गोदानमुनत्त्याप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चस इति त्रेण्या शलल्या विनीय त्रीणि दर्भपुञ्जीलान्यूर्ध्वाग्राण्युपनियच्छत्योषधे त्रायस्वैनं स्वधिते मैनं हिंसीरिति लोहितायसं क्षुरं तिर्यञ्चं निधाय प्रवपति यदृषीणां त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्देवानां त्र्यायुषं तन्मेऽस्तु त्र्यायुषम् । येन पूषा बृहस्पतेरग्नेरिन्द्रस्य चायुषेऽवपत्तेन ते वपाम्यसौ दीर्घायुत्वाय वर्चस इत्येवमेवोत्तरं गोदानं वापयते केशान्वापयित्वा गोमयपिण्डे निदधात्यथैनं गोमयपिण्डं गोष्ठ उदकान्त उदुम्बरमूले दर्भस्तम्बे वा निदधात्यथैनं स्नातमलङ्कुर्वन्ति २८

इति भारद्वाजसूत्रे प्रथमः प्रश्नः