२७

विप्रोष्य हरिणी दूर्वे आदाय गृहानुपोदेति गृहा मा बिभीत मा वेपिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वः सुमनाः सुवर्चा गृहानेमि मनसा मोदमानः । येषां प्रवसन्नध्येति येषु सौमनसो बहुः । गृहानुपह्वयामहे ते नो जानन्तु जानतः । इमे गृहाः प्रति जीवेष्वस्थुरूर्जं बिभ्रतो जगतः सुशेवाः । एह वत्सः क्रन्दत्वा कुमार आ धेनवो बहुला नित्यवत्साः । उपहूतं गोअश्वमुपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु मे । ऊर्जं बिभ्रत एमस्यूर्जा वः संसृजामि रमध्वं मा बिभीतनेति तृणे प्रास्यति शिवा उपमितः प्रमितश्च सन्त्विति द्वार्ये सम्मृशति क्षेमाय वः शिवः शान्त्यै प्रपद्य इति प्रपद्यते दक्षिणपूर्वाभ्यामनुवीक्षतेऽभयं वोऽस्त्वभयं मे अस्त्विति भार्यां सङ्गच्छम्नानामनुमन्त्रयते विश्वा उत त्वया वयमित्येतया पुत्रं सङ्गच्छमानमनुमन्त्रयतेऽङ्गादङ्गात्सम्भवसीति द्वाभ्यामथैनं मूर्धंस्त्रिरवजिघ्रेत्पशूनां त्वा हिङ्कारेणाभिजिघ्रामि प्रजापतये त्वा हिङ्कारेणाभिजिघ्रामि प्रजापतिस्त आयुर्दधातु स मे शतायुरेधि भूर्भुवः सुवरिति सर्वेभ्यः प्राणेभ्यो जातासि सा जीव शरदः शतमिति दुहितुरथैनं षष्ठे मास्यन्नं प्राशयति तस्य स एव प्राशनकल्पो यो मेधाजनन एतावन्नाना भूरित्यग्रे प्राशयति भुव इति द्वितीयं सुवरिति तृतीयम् २७