२६

उपनिर्हरन्ति सूतिकाग्निमौपासनमतिहरन्ति स एष उत्तपनार्थो भवति नास्मिन्किं चन कर्म क्रियते दशम्यां स्नातौ मातापुत्रौ शुच्यगारं कुर्वन्त्युपनिर्हरन्त्यौपासनं सूतिकाग्निमतिहरन्त्यन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति धाता ददातु नो रयिमित्यष्टौ दशम्यां पुत्रस्य नाम दधाति द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्टानान्तं तद्धि प्रतिष्ठितमिति विज्ञायते पिता मातेत्यग्रेऽभिव्याहरेयातां विज्ञायते मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्र इति द्वे नामनी कुर्याद्विज्ञायते च तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति नक्षत्रनाम द्वितीयं स्यादन्यतरद्गुह्यं स्यादन्यतरेणैनमामन्त्रयेरन् २६