अग्नौ प्रताप्याभिमृशत्यग्नेस्त्वा तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण विश्वेषां त्वा देवानां क्रतुनाभिमृशामि । अङ्गादङ्गात्सम्भवसि हृदयादधि जायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतमित्यथैनं वात्सप्रेणाभिमृशति दिवस्परीत्यनुवाकेन यत्र शेते तदभिमृशति वेद ते भूमि हृदयं दिवि चन्द्रमसि श्रितम् । वेदामृतस्य गोप्तारं माहं पौत्रमघं रुदमित्यथैनं मातुरुपस्थ आदधाति मा ते पुत्रं रक्षो वधीन्मा धेनुरत्यासारिणी । प्रिया धनस्य भूया एधमाना स्वे वश इति स्तनं प्रतिधापयत्ययं कुमारो जरां धयतु दीर्घमायुः । तस्मै त्वं स्तन प्रप्यायायुर्वर्चो यशो बलमिति संविष्टाभ्यां परिदां करोति नामयति न रुदति यत्र वयं वदामसि यत्र चाभिमृशामसीति शिरस्त उदकुम्भं निदधात्यापः सुप्तेषु जाग्रत रक्षांसि निरितो नुदध्वमिति नैतासामपामुदकार्थं कुर्वन्त्यथ यदि चिरं न विजायते स्रजमेनां दर्शयेत्परिमुक्तायां क्षिप्रमेवोपनिर्हरेद्यदा यदा सूतिकारोगः स्याद्दक्षिणस्य पदस्तप्तोदकेन पार्ष्णिं क्लेदयित्वा तदा तदा तं देशमवमार्ष्टि यत्रास्या दुःखं भवति धनुर्मटची पुरुषस्य हस्तयोरेकशतं शृणोरङ्ग ते धापयितारस्त्वं रोगस्येशिषे त्वमु रोगस्य सूतिकारोगभैषज्यमस्यमुष्या इति २५