सा यदि पुमांसं जनयति तमभिमृशति वृधदिति मध्यमं पलाशपलाशं संवेष्ट्य तेनास्य दक्षिणं कर्णमाजपति भूस्त्वयि दधामीति भुवस्त्वयि दधामीत्युत्तरं सुवस्त्वयि दधामीति दक्षिणमपि वोत्तरमेव द्विः सकृदेव दक्षिणमथैनमभिमन्त्रयतेऽश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामासि स जीव शरदः शतम् । मेधां ते देवः सविता मेधां देवी सरस्वती । मेधां ते अश्विनावुभावाधत्तां पुष्करस्रजौ । वेदो वै पुत्रनामासि स जीव शरदः शतमित्यथैनं दधि मधु घृतमिति संसृज्य त्रिभिर्दर्भपुञ्जीलैर्हिरण्येन वा त्रिः प्राशयत्यपां त्वौषधीनां रसं प्राशयाम्यायुर्वर्चो यशो मेधां त्वयि दधामि सवित्रा प्रसूतस्त्वष्टा वीरमधात्स मे शतायुरेधि भूर्भुवः सुवरित्यथास्य दक्षिणेन हस्तेन दक्षिणं हस्तमभीवाङ्गुष्ठमभीव लोमानि गृह्णात्यग्निरायुष्मानित्येतैर्मन्त्रैर्नवनीतेन पाणी अभ्यज्य हिरण्यं हस्ते कृत्वा २४