२३

विजातायाः परिदां करोति दक्षिणार्धेऽगारस्याग्निमुपसमाधाय सर्षपान्फलीकरणमिश्रानञ्जलावध्युप्य जुहोति शण्डो मर्क उपवीरस्तुण्डिकेर उलूखलः । च्यवनो नश्यतादितः स्वाहेत्येवं द्वितीयामेवं तृतीयामथापरां केशिनी श्वलोमिनी खजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहेत्येवं द्वितीयामेवं तृतीयामथापरामर्यम्णः कुम्भीपात्रः पात्रपाणिर्निपुणिः । अपेत नश्यतादितः स्वाहेत्येवं द्वितीयामेवं तृतीयामथापरां मिश्रवाससः कौबेरका रक्षोराजेन प्रेषिताः । ग्रामं सजानयो गच्छन्तीच्छन्तोऽपरिदाकृतान्स्वाहा । एतान्घ्नतैतान्गृह्णीतेत्ययं ब्राह्मणो दूतः । तानग्निः पर्यसरत्तानिन्द्रस्तान्बृहस्पतिः । तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान्विकेशान्लम्बनस्तनान्स्वाहा । नक्तञ्चारिण उरस्पेशाञ्छूलहस्तान्कपालपान् । पूर्व एषां पितैत्युच्चैः श्राव्यकर्णकः । माता जघन्या सर्पति ग्रामे विधुरमिच्छन्ती स्वाहा । प्रदोषचारिणी स्वसा सन्धिना प्रेक्षते कुलम् । या स्वपन्तं बोधयति यस्यै विजातायां मनः । तासां त्वं कृष्णवर्त्मने क्लोमानं हृदयं यकृत् । अग्ने अक्षीणि निर्दह स्वाहेत्येवमेव निष्क्रामति च प्रपद्यामाने चावपताहरहरा निर्दशताया इति २३