२१

अथास्याः प्रथमगर्भिण्याश्चतुर्थे मासि सीमन्तं कुर्वन्त्यापूर्यमाणपक्षे पुण्ये नक्षत्रे पयसि स्थालीपाकं श्रपयित्वान्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोति भूर्भुवः सुवः प्रजापत इति चतस्रस्त्रेण्या शलल्या त्रीणि दर्भपुञ्जीलानि शलालुग्रप्समित्युपनियम्योर्ध्वं सीमन्तमुन्नयति भूर्भुवः सुवो राकामहं यास्ते राके । सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजाः । विवृत्तचक्रा आसीनास्तीरेण यमुने तवेति तीरेणासौ तवेति वा यस्यास्तीरे वसति पुरस्तादग्नेरेतानि निधाय त्रीनोदनानुद्धृत्य सर्पिषोपसिच्योपनिदधात्युदशरावं चतुर्थं तेषामेकैकमवेक्षमाणां पृच्छति किं पश्यसीति पुत्रांश्च पशूंश्चेति प्रत्याह तेषामेकं ब्राह्मणान्भोजयेदेकं ब्राह्मणीरेकं सह कुमारैः सा प्राश्नाति वाग्यत आस्त आ नक्षत्राणामुदयादुदितेषु नक्षत्रेष्विति समानम् २१