२०

अथैनां तूष्णीं हिङ्कृत्य वाग्यत उपेत्यामूहमस्मि सा त्वं द्यौरहं पृथिवी त्वं सामाहमृक्त्वं तावेहि सम्भवाव सह रेतो दधावहै पुंसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेत्यथास्या अपवृत्तार्थोऽपवृत्तार्थायै मुखेन मुखं सन्निधाय प्राणित्येतं प्राणमपानिहीति तं सा प्रत्यपानित्यथास्या आचान्तोदकायै पाणी प्रक्षाल्याभिमृशति करद्दधच्छिवेन त्वा पञ्चशाखेन हस्तेनाविद्विषावता साहस्रेण यशस्विनाभिमृशामि सुप्रजास्त्वायेति भसद्देशं यदा मलवद्वासा स्यादथैनां ब्राह्मणप्रतिषिद्धानि व्रतानि संशास्ति यां मलवद्वाससमिति चतुर्थ्यां स्नातां प्रयतवस्त्रां ब्राह्मणसम्भाषां सं ते मनसा मन इत्येतेनानुवाकेनोपसंविशति सर्वाण्युपायनानि मन्त्रवन्ति भवन्तीत्याश्मरथ्यो यच्चादौ यच्चर्तावित्यालेखनः २०