अष्टम्यः पर्वाणि चोपवसत्याग्नेयेन स्थालीपाकेन पर्वसु यजते वाग्यत आस्त आ नक्षत्राणामुदयादुदितेषु नक्षत्रेषु वत्समन्वारभ्योत्थापयत्युदायुषा स्वायुषेत्यथैनां ध्रुवमरुन्धतीमन्यानि च नक्षत्राण्यभिवीक्षयति नमो ब्रह्मणे ध्रुवायाच्युतायास्त्वित्येतेनानुवाकेन ध्रुवमुपतिष्ठते ध्रुवक्षितिर्ध्रुवयोनिर्ध्रुवमसि ध्रुवत स्थितम् । त्वं नक्षत्राणां मेथ्यसि स मा पाहि पृतन्यत इति सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ध्रुवतां ये ह निन्युः । षट्कृत्तिका मुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमीत्यरुन्धतीं त्रिरात्रमक्षारलवणाशिनावधःशायिनौ ब्रह्मचारिणौ भवतोऽथ चतुर्थ्यामपररात्रेऽन्तरागारेऽग्निमुपसमाधाय जयाभ्यातानान्राष्ट्रभृत इति हुत्वैता आहुतीर्जुहोत्यग्ने प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणास्त्वा नाथकामः प्रपद्ये । यास्यां पतिघ्नी तनूः प्रजाघ्नी पशुघ्नी लक्ष्मिघ्नी जारघ्नीमस्यै तां कृणोमि स्वाहा । वायो प्रायश्चित्त आदित्य प्रायश्चित्ते प्रजापते प्रायश्चित्ते त्वं देवानां प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकामः प्रपद्ये । यास्यै निन्दिता तनूस्तामितो नाशयामसि स्वाहेति १९